Ckalari is my friend

Thursday 14 June 2012

ताडनं दिने दिने। हास्यकविता


ताडनं दिने दिने।

दतु डिण्डिम सखे सुखं तवेति चिन्तये

वदतु त्वद्विशेषमस्ति श्रवणकौतुकन्तु मे।

किं वदामि मर्दनेन पीडितो भवाम्यहम्।

येन केन यापयामि दुर्दिनानि मत्सखे।

आवृतं मुखं त्वचा वपुश्च पाशबन्धितम्।

ताडनं दिने दिने च रोदनं ममाश्रयम्।

रक्षकोस्ति मे सदापि कुक्षिरक्षणोत्सुको

भक्षणप्रियस्तथापि दक्षिणः कदापि न।

कोप्यजानन् । हास्यकविता


··    कोप्यजानन्    

मोषणे रू‍क्षे गृहे धान्यशोषणे
मूषकं हन्तुं विनिश्चितं स्वामिना।
कोटरादायान्तमाखुं प्रतीक्ष्य तं 
दण्डं गृहीत्वा निलीय स्थितो नरः।
पश्चात्तु तूष्णीमुपाविशदाखुभुक्
मूषकमांसबुभुक्षया निश्चलम्।
पृष्ठतस्तेषामुपाविशन्मूषकः
तेषामदृश्यस्तथोपात्तकौतुकम्।