Ckalari is my friend

Sunday, 26 May 2013

संस्कृतग्रामस्य परमार्थमन्विष्य ..

संस्कृतग्रामस्य परमार्थमन्विष्य  अस्माभिः मत्तूर्ग्रामं प्रति  एका पठनयात्रा आयोजिता। तदधिकृत्य कैरल्यां लेखनमेकं प्रकाशितं मातृभूमिदिनपत्रिकायाम्। पश्यन्तु- 
http://digitalpaper.mathrubhumi.com/118735/Weekend/26-May-2013#page/3/1


Thursday, 6 December 2012

साहसमनुचितम्

धृत्वा कवचमसौ दृढरूपं
कृत्वा गात्रमनारतमस्मिन्
पदपदमवधानेन सलीलं
गच्छति मन्दं कच्छपवीरः॥

पादैर्युक्तः प्रस्तर इव भुवि
याति विचित्रशरीरः कथमपि
शशककथायां जेता कस्य च
हृदयं सपदि ग्रहीष्यति नैषः॥

पश्येत् कोपि सकौतुकमेनं
पृच्छेत् किं भोः गच्छति मन्दं
साहसमनुचितमित्येवं ननु
वदेद् हसित्वा गुरुभूतोयम्।



Friday, 5 October 2012

अहो ! धैर्यं हस्तिपस्य !


हस्तिनपुर्यां हस्तिप एको
मत्तगजं पथि नयति कदाचित्।
पत्तनमध्ये जनैस्सहर्षं
संस्तुतमस्य च धैर्यमथैवम्।
"पश्यतु करिवरमेनं तस्य च
हस्तिपमेनममानुषधीरम्"।
रराज गच्छन् मदगजराजो
तथा च पुरतस्तस्य नियन्ता।
पथि तु भषन्तं शुनकमकस्मा-
दभिमुखमेव ददर्श पुनः किम्?
प्रकम्पमानं हस्तिपमथ बत!
जनोप्यपश्यन्मदगजकण्ठे॥


Saturday, 29 September 2012

शुभाय भवतु सर्वम्


श्यति नहि यदि दर्शनयोग्यं
निष्फलमेव हि दर्शनभाग्यम्।
श्रोतव्यं नहि शृणोति चेदिह
श्रवणं किमर्थमस्माकं? वद
वदेन्न सत्यं प्रियञ्च युक्तं
वृथा भवेन्ननु रसनाधर्मः?
ऋते च सदसद्वस्तुविवेकात्
बुद्ध्या किं बत साध्यं लोके?
सुपथे यदि नहि विचरति चेद्वद
पदेन किं वा प्रयोजनं भुवि?
करोति नहि चेत् सत्कर्माणि च
करेण किं वा करणीयं भोः?


Monday, 24 September 2012

छायां प्रति।

प्रतिदिनं ममान्तिके सहर्षमागमिष्यसि।

तमसि मामुपेक्ष्य त्वं क्षणेन कुत्र गच्छसि?
रहसि किं करोषि मित्र! मनसि भीतिर्नास्ति वा?
वसति: कुत्र भवति सा च वियति वा रसातले?
कति जनास्त्वया सहैव तत्र सन्ति त्वद्गृहे?
ते तु दुःखमनुभवेयुः किं नु त्वयि च निर्गते?
त्वत्समागमः करोति मनसि हर्षमतितराम्।
त्वद्वियोगकारणाच्च दुःखितो भवाम्यहम्।
अतः च मामुपेक्ष्य गमनुचितं कदापि भोः!
सदयमात्ममित्र! त्वञ्च वस सदापि मद्गृहे।


Tuesday, 18 September 2012

हास्यकविता ।


अहं हताशः

नाम किं ? सखे! सोमशेखरः।
मातृनाम किं ? मालतीति भोः!
कश्च जनकः? बालचन्द्रः।
कुत्र वासः? श्रीशिवालये।
ग्राम कस्तव ? नेर्यमङ्गलम्।
कुत्र गच्छसि ? मित्रमन्दिरम्।
तत्र किं कृते ? सग्धिरस्ति भोः!
किं च कारणं ? विवाहमङ्गलम्।
का वधूर्वद ? ताटकेति सा।
मम शुभाशयान् तां वदामि भोः!
को वरः सखे ? – अयं जनो बत !
ममानुशोचनं – धन्यवादः।

Saturday, 25 August 2012

Thursday, 14 June 2012

ताडनं दिने दिने। हास्यकविता


ताडनं दिने दिने।

दतु डिण्डिम सखे सुखं तवेति चिन्तये

वदतु त्वद्विशेषमस्ति श्रवणकौतुकन्तु मे।

किं वदामि मर्दनेन पीडितो भवाम्यहम्।

येन केन यापयामि दुर्दिनानि मत्सखे।

आवृतं मुखं त्वचा वपुश्च पाशबन्धितम्।

ताडनं दिने दिने च रोदनं ममाश्रयम्।

रक्षकोस्ति मे सदापि कुक्षिरक्षणोत्सुको

भक्षणप्रियस्तथापि दक्षिणः कदापि न।

कोप्यजानन् । हास्यकविता


··    कोप्यजानन्    

मोषणे रू‍क्षे गृहे धान्यशोषणे
मूषकं हन्तुं विनिश्चितं स्वामिना।
कोटरादायान्तमाखुं प्रतीक्ष्य तं 
दण्डं गृहीत्वा निलीय स्थितो नरः।
पश्चात्तु तूष्णीमुपाविशदाखुभुक्
मूषकमांसबुभुक्षया निश्चलम्।
पृष्ठतस्तेषामुपाविशन्मूषकः
तेषामदृश्यस्तथोपात्तकौतुकम्।

Monday, 21 May 2012

विजयते तवेप्सितम्



                              विजयते तवेप्सितम्



जगत्प्राणः वायुः



                          जगत्प्राणः वायुः 

जगत्प्राण: वायु: