Sanskrit Poems for children, Sisugeetham, Samskrutha Balakavitha, Hasyakavitha, funny sanskrit poems
Friday, 5 October 2012
Saturday, 29 September 2012
शुभाय भवतु सर्वम्
पश्यति नहि यदि दर्शनयोग्यं
निष्फलमेव हि दर्शनभाग्यम्।
श्रोतव्यं नहि शृणोति चेदिह
श्रवणं किमर्थमस्माकं? वद
वदेन्न सत्यं प्रियञ्च युक्तं
वृथा भवेन्ननु रसनाधर्मः?
ऋते च सदसद्वस्तुविवेकात्
बुद्ध्या किं बत साध्यं लोके?
सुपथे यदि नहि विचरति चेद्वद
पदेन किं वा प्रयोजनं भुवि?
करोति नहि चेत् सत्कर्माणि च
करेण किं वा करणीयं भोः?
Monday, 24 September 2012
छायां प्रति।
प्रतिदिनं ममान्तिके सहर्षमागमिष्यसि।
तमसि मामुपेक्ष्य त्वं क्षणेन कुत्र गच्छसि?
रहसि किं करोषि मित्र! मनसि भीतिर्नास्ति वा?
वसति: कुत्र भवति सा च वियति वा रसातले?
कति जनास्त्वया सहैव तत्र सन्ति त्वद्गृहे?
ते तु दुःखमनुभवेयुः किं नु त्वयि च निर्गते?
त्वत्समागमः करोति मनसि हर्षमतितराम्।
त्वद्वियोगकारणाच्च दुःखितो भवाम्यहम्।
अतः च मामुपेक्ष्य गमनुचितं कदापि भोः!
सदयमात्ममित्र! त्वञ्च वस सदापि मद्गृहे।
Tuesday, 18 September 2012
हास्यकविता ।
अहं हताशः।
नाम किं ? सखे! – सोमशेखरः।
मातृनाम किं ? – मालतीति भोः!
कश्च जनकः? – बालचन्द्रः।
कुत्र वासः? – श्रीशिवालये।
ग्राम कस्तव ? – नेर्यमङ्गलम्।
कुत्र गच्छसि ? – मित्रमन्दिरम्।
तत्र किं कृते ? सग्धिरस्ति भोः!
किं च कारणं ? – विवाहमङ्गलम्।
का वधूर्वद ? – ताटकेति सा।
मम शुभाशयान् – तां
वदामि भोः!
को वरः सखे ? – अयं जनो बत !
ममानुशोचनं – धन्यवादः।
Monday, 27 August 2012
Sunday, 1 July 2012
Subscribe to:
Posts (Atom)



