संस्कृतग्रामस्य परमार्थमन्विष्य अस्माभिः मत्तूर्ग्रामं प्रति एका पठनयात्रा आयोजिता। तदधिकृत्य कैरल्यां लेखनमेकं प्रकाशितं मातृभूमिदिनपत्रिकायाम्। पश्यन्तु-
http://digitalpaper.mathrubhumi.com/118735/Weekend/26-May-2013#page/3/1
Sanskrit Poems for children, Sisugeetham, Samskrutha Balakavitha, Hasyakavitha, funny sanskrit poems
Sunday, 26 May 2013
Saturday, 11 May 2013
Tuesday, 2 April 2013
Sunday, 24 March 2013
Thursday, 6 December 2012
साहसमनुचितम्
धृत्वा कवचमसौ दृढरूपं
कृत्वा गात्रमनारतमस्मिन्
पदपदमवधानेन सलीलं
गच्छति मन्दं कच्छपवीरः॥
पादैर्युक्तः प्रस्तर इव भुवि
याति विचित्रशरीरः कथमपि
शशककथायां जेता कस्य च
हृदयं सपदि ग्रहीष्यति नैषः॥
पश्येत् कोपि सकौतुकमेनं
पृच्छेत् किं भोः गच्छति मन्दं
साहसमनुचितमित्येवं ननु
वदेद् हसित्वा गुरुभूतोयम्।
कृत्वा गात्रमनारतमस्मिन्
पदपदमवधानेन सलीलं
गच्छति मन्दं कच्छपवीरः॥
पादैर्युक्तः प्रस्तर इव भुवि
याति विचित्रशरीरः कथमपि
शशककथायां जेता कस्य च
हृदयं सपदि ग्रहीष्यति नैषः॥
पश्येत् कोपि सकौतुकमेनं
पृच्छेत् किं भोः गच्छति मन्दं
साहसमनुचितमित्येवं ननु
वदेद् हसित्वा गुरुभूतोयम्।
Saturday, 10 November 2012
Sunday, 28 October 2012
Subscribe to:
Posts (Atom)



