Ckalari is my friend

Sunday 1 April 2012

अमृतं संस्कृतम्


अमृतं संस्कृतम्

जयतु भारतं विश्वमोहनम् 
भजत सादरं भारताम्बिकाम्
जयतु संस्कृतं भारतात्मजम्
पठतु  संस्कृतं  लोकरञ्जकम्


यदिह विद्यते तद्भवेत् क्वचित् 
यदिह नासते नास्ति तत् क्वचित् 
अतिमहत्तरं अस्य वैभवम्
अतुलमक्षयं भजतु संस्कृतम्


सदुपदेशकैर्सुभाषितैर्युतं 
ह्रुदयरञ्जकै काव्यतल्लजै:
विपुलवैभवं शास्त्रसम्मितं 
संस्कृतं सदा मोक्षदायकम्


सदुपदिश्यते सततमाप्तवत्
हितकरं दिशं दिशति संस्कृतम्
पठतु संस्कृतं  ज्ञानलब्धये 
विनयमाप्नुयात् विश्वभाषया 


भुवि कदापि न क्षरति संस्कृतम् 
अमृतशोषणं कथं भविष्यति?
त्यजतु संशयं भजतु प्रत्ययम् 
पठतु संस्कृतं स्वास्थ्यमाप्नुयात्