Ckalari is my friend

Friday 5 October 2012

अहो ! धैर्यं हस्तिपस्य !


हस्तिनपुर्यां हस्तिप एको
मत्तगजं पथि नयति कदाचित्।
पत्तनमध्ये जनैस्सहर्षं
संस्तुतमस्य च धैर्यमथैवम्।
"पश्यतु करिवरमेनं तस्य च
हस्तिपमेनममानुषधीरम्"।
रराज गच्छन् मदगजराजो
तथा च पुरतस्तस्य नियन्ता।
पथि तु भषन्तं शुनकमकस्मा-
दभिमुखमेव ददर्श पुनः किम्?
प्रकम्पमानं हस्तिपमथ बत!
जनोप्यपश्यन्मदगजकण्ठे॥