Sanskrit Poems for children, Sisugeetham, Samskrutha Balakavitha, Hasyakavitha, funny sanskrit poems
Monday, 21 May 2012
Saturday, 19 May 2012
Thursday, 17 May 2012
वार्तापत्रम्
वार्तापत्रम्
अहो! विचित्रं वार्तापत्रम् अस्माकं मित्रम्।
गृहं गृहं तत् प्रतिदिनमेत्य च कथयति वृत्तान्तम् ।।
ह्यस्तनवार्तां वदति च तस्याः श्वस्तनपरिणामम्
प्रतिबोधयति च कार्यमकार्यम् हितोपदेससमम् ।।
सुहृदिव तिष्ठाति निकटे पश्यति हितमप्यस्मकम् ।
सदापि भजति नवत्वं वितरति परितोषं लोके ।।
घटनां वदति तथा च समस्यां दुर्घटनां वदति।
कथयति देशविदेशविशेषान् कौतुकवृतान्तान् ।।
नानाविभवसमन्वितमेतत् नानावर्णयुतम्।
बालान् रमयति यूनो तथाच वृद्धान् रञ्जयति ।।
समभावनया सततं पश्यति समवायं भजति ।
वार्तापत्रं परिपोषयति च सर्वेषामैक्यम् ।।
Subscribe to:
Posts (Atom)