Ckalari is my friend

Thursday 17 May 2012

वार्तापत्रम्



वार्तापत्रम् 

अहो! विचित्रं वार्तापत्रम् अस्माकं मित्रम्।

गृहं गृहं तत् प्रतिदिनमेत्य च कथयति वृत्तान्तम् ।।

ह्यस्तनवार्तां वदति च तस्याः श्वस्तनपरिणामम् 

प्रतिबोधयति च कार्यमकार्यम्  हितोपदेससमम् ।।

सुहृदिव तिष्ठाति निकटे पश्यति हितमप्यस्मकम् ।

सदापि भजति नवत्वं वितरति परितोषं लोके ।। 

घटनां वदति तथा च समस्यां दुर्घटनां वदति।

कथयति देशविदेशविशेषान्  कौतुकवृतान्तान् ।।

नानाविभवसमन्वितमेतत् नानावर्णयुतम्।

बालान्  रमयति यूनो तथाच वृद्धान् रञ्जयति ।।

समभावनया सततं पश्यति समवायं भजति ।

वार्तापत्रं परिपोषयति च सर्वेषामैक्यम् ।।

No comments:

Post a Comment