Ckalari is my friend

Tuesday 18 September 2012

हास्यकविता ।


अहं हताशः

नाम किं ? सखे! सोमशेखरः।
मातृनाम किं ? मालतीति भोः!
कश्च जनकः? बालचन्द्रः।
कुत्र वासः? श्रीशिवालये।
ग्राम कस्तव ? नेर्यमङ्गलम्।
कुत्र गच्छसि ? मित्रमन्दिरम्।
तत्र किं कृते ? सग्धिरस्ति भोः!
किं च कारणं ? विवाहमङ्गलम्।
का वधूर्वद ? ताटकेति सा।
मम शुभाशयान् तां वदामि भोः!
को वरः सखे ? – अयं जनो बत !
ममानुशोचनं – धन्यवादः।

1 comment: