Ckalari is my friend

Saturday, 29 September 2012

शुभाय भवतु सर्वम्


श्यति नहि यदि दर्शनयोग्यं
निष्फलमेव हि दर्शनभाग्यम्।
श्रोतव्यं नहि शृणोति चेदिह
श्रवणं किमर्थमस्माकं? वद
वदेन्न सत्यं प्रियञ्च युक्तं
वृथा भवेन्ननु रसनाधर्मः?
ऋते च सदसद्वस्तुविवेकात्
बुद्ध्या किं बत साध्यं लोके?
सुपथे यदि नहि विचरति चेद्वद
पदेन किं वा प्रयोजनं भुवि?
करोति नहि चेत् सत्कर्माणि च
करेण किं वा करणीयं भोः?


No comments:

Post a Comment