Ckalari is my friend

Monday 24 September 2012

छायां प्रति।

प्रतिदिनं ममान्तिके सहर्षमागमिष्यसि।

तमसि मामुपेक्ष्य त्वं क्षणेन कुत्र गच्छसि?
रहसि किं करोषि मित्र! मनसि भीतिर्नास्ति वा?
वसति: कुत्र भवति सा च वियति वा रसातले?
कति जनास्त्वया सहैव तत्र सन्ति त्वद्गृहे?
ते तु दुःखमनुभवेयुः किं नु त्वयि च निर्गते?
त्वत्समागमः करोति मनसि हर्षमतितराम्।
त्वद्वियोगकारणाच्च दुःखितो भवाम्यहम्।
अतः च मामुपेक्ष्य गमनुचितं कदापि भोः!
सदयमात्ममित्र! त्वञ्च वस सदापि मद्गृहे।


No comments:

Post a Comment